वांछित मन्त्र चुनें

इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥

अंग्रेज़ी लिप्यंतरण

indrāvaruṇā yad ṛṣibhyo manīṣāṁ vāco matiṁ śrutam adattam agre | yāni sthānāny asṛjanta dhīrā yajñaṁ tanvānās tapasābhy apaśyam ||

पद पाठ

इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ । यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥ ८.५९.६

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:31» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:6